|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.18. अध्यायः 018
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णेन युधिष्ठिरम्प्रति रुद्रस्य कोपप्रसादाक्ष्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवध सम्भवकथनम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text
कश्रीभगवानुवाच। 10-18-0x(5305)(64752)
ततो देवयुगेऽतीते देवा वै समकल्पयन्।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः॥ 10-18-1(64753)
कल्पयामासुरथ ते साधनानि हवींषि च।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च॥ 10-18-2(64754)
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप॥ 10-18-3(64755)
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह॥ 10-18-4(64756)
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्॥ 10-18-5(64757)
लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः॥ 10-18-6(64758)
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्॥ 10-18-7(64759)
ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्।
आजगामाथ तत्रैव यत्र देवाः समीजिरे॥ 10-18-8(64760)
तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे॥ 10-18-9(64761)
न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्॥ 10-18-10(64762)
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्॥ 10-18-11(64763)
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा॥ 10-18-12(64764)
ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः॥ 10-18-13(64765)
स तु तेनैव रूपेण दिविस्थो वै व्यराजत।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले॥ 10-18-14(64766)
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन॥ 10-18-15(64767)
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्॥ 10-18-16(64768)
प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्॥ 10-18-17(64769)
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः॥ 10-18-18(64770)
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः॥ 10-18-19(64771)
ततो विधनुषं देवा देवश्रेष्ठमुपागमन्।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः॥ 10-18-20(64772)
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो॥ 10-18-21(64773)
भगस्य नयने चैव बाहू च सवितुस्तथा।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव॥ 10-18-22(64774)
ततः सुस्थमिदं सर्वं बभूव पुनरेव हि।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्॥ 10-18-23(64775)
तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत॥ 10-18-24(64776)
ततस्ते निहताः सर्वे तव पुत्रा महारथाः।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः॥ 10-18-25(64777)
न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्।
महादेवप्रसादः स कुरुकार्यमनन्तरम्॥ ॥ 10-18-26(64778)
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः॥ 18 ॥ समाप्तं ऐषीकपर्व ॥ 2 ॥ सौप्तिकपर्व च समाप्तम्॥ 10 ॥
अस्यानन्रं स्त्रीपर्व भविष्यति
तस्यायमाद्यः श्लोकः। 10-18-1(64779)
10-18-1x(5306)
जनमेजय उवाच।
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः। क्रियायज्ञः गर्भाधानादिसंस्काररूपः। गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः। पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः। विषयजं सुखमित्यर्थः। एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम्॥ 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः॥ 10-18-18 अष्टादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|